rigveda/8/27/4

विश्वे॒ हि ष्मा॒ मन॑वे वि॒श्ववे॑दसो॒ भुव॑न्वृ॒धे रि॒शाद॑सः । अरि॑ष्टेभिः पा॒युभि॑र्विश्ववेदसो॒ यन्ता॑ नोऽवृ॒कं छ॒र्दिः ॥

विश्वे॑ । हि । स्म॒ । मन॑वे । वि॒श्वऽवे॑दसः॑ । भुव॑न् । वृ॒धे । रि॒शाद॑सः । अरि॑ष्टेभिः । पा॒युऽभिः॑ । वि॒श्व॒ऽवे॒द॒सः॒ । यन्त॑ । नः॒ । अ॒वृ॒कम् । छ॒र्दिः ॥

ऋषिः - मनुर्वैवस्वतः

देवता - विश्वेदेवा:

छन्दः - निचृत्पङ्क्ति

स्वरः - पञ्चमः

स्वर सहित मन्त्र

विश्वे॒ हि ष्मा॒ मन॑वे वि॒श्ववे॑दसो॒ भुव॑न्वृ॒धे रि॒शाद॑सः । अरि॑ष्टेभिः पा॒युभि॑र्विश्ववेदसो॒ यन्ता॑ नोऽवृ॒कं छ॒र्दिः ॥

स्वर सहित पद पाठ

विश्वे॑ । हि । स्म॒ । मन॑वे । वि॒श्वऽवे॑दसः॑ । भुव॑न् । वृ॒धे । रि॒शाद॑सः । अरि॑ष्टेभिः । पा॒युऽभिः॑ । वि॒श्व॒ऽवे॒द॒सः॒ । यन्त॑ । नः॒ । अ॒वृ॒कम् । छ॒र्दिः ॥


स्वर रहित मन्त्र

विश्वे हि ष्मा मनवे विश्ववेदसो भुवन्वृधे रिशादसः । अरिष्टेभिः पायुभिर्विश्ववेदसो यन्ता नोऽवृकं छर्दिः ॥


स्वर रहित पद पाठ

विश्वे । हि । स्म । मनवे । विश्वऽवेदसः । भुवन् । वृधे । रिशादसः । अरिष्टेभिः । पायुऽभिः । विश्वऽवेदसः । यन्त । नः । अवृकम् । छर्दिः ॥