rigveda/8/27/22

व॒यं तद्व॑: सम्राज॒ आ वृ॑णीमहे पु॒त्रो न ब॑हु॒पाय्य॑म् । अ॒श्याम॒ तदा॑दित्या॒ जुह्व॑तो ह॒विर्येन॒ वस्यो॒ऽनशा॑महै ॥

व॒यम् । तत् । वः॒ । स॒म्ऽरा॒जः॒ । आ । वृ॒णी॒म॒हे॒ । पु॒त्रः । न । ब॒हु॒ऽपाय्य॑म् । अ॒श्याम॑ । तत् । आ॒दि॒त्याः॒ । जुह्व॑तः । ह॒विः । येन॑ । वस्यः॑ । अ॒नशा॑महै ॥

ऋषिः - मनुर्वैवस्वतः

देवता - विश्वेदेवा:

छन्दः - निचृत्पङ्क्ति

स्वरः - पञ्चमः

स्वर सहित मन्त्र

व॒यं तद्व॑: सम्राज॒ आ वृ॑णीमहे पु॒त्रो न ब॑हु॒पाय्य॑म् । अ॒श्याम॒ तदा॑दित्या॒ जुह्व॑तो ह॒विर्येन॒ वस्यो॒ऽनशा॑महै ॥

स्वर सहित पद पाठ

व॒यम् । तत् । वः॒ । स॒म्ऽरा॒जः॒ । आ । वृ॒णी॒म॒हे॒ । पु॒त्रः । न । ब॒हु॒ऽपाय्य॑म् । अ॒श्याम॑ । तत् । आ॒दि॒त्याः॒ । जुह्व॑तः । ह॒विः । येन॑ । वस्यः॑ । अ॒नशा॑महै ॥


स्वर रहित मन्त्र

वयं तद्व: सम्राज आ वृणीमहे पुत्रो न बहुपाय्यम् । अश्याम तदादित्या जुह्वतो हविर्येन वस्योऽनशामहै ॥


स्वर रहित पद पाठ

वयम् । तत् । वः । सम्ऽराजः । आ । वृणीमहे । पुत्रः । न । बहुऽपाय्यम् । अश्याम । तत् । आदित्याः । जुह्वतः । हविः । येन । वस्यः । अनशामहै ॥