rigveda/8/27/21
ऋषिः - मनुर्वैवस्वतः
देवता - विश्वेदेवा:
छन्दः - बृहती
स्वरः - मध्यमः
यत् । अ॒द्य । सूरे॑ । उत्ऽइ॑ते । यत् । म॒ध्यन्दि॑ने । आ॒ऽतुचि॑ । वा॒मम् । ध॒त्थ । मन॑वे । वि॒श्व॒ऽवे॒द॒सः॒ । जुह्वा॑नाय । प्रऽचे॑तसे ॥
यत् । अद्य । सूरे । उत्ऽइते । यत् । मध्यन्दिने । आऽतुचि । वामम् । धत्थ । मनवे । विश्वऽवेदसः । जुह्वानाय । प्रऽचेतसे ॥