rigveda/8/27/18
ऋषिः - मनुर्वैवस्वतः
देवता - विश्वेदेवा:
छन्दः - बृहती
स्वरः - मध्यमः
अज्रे॑ । चि॒त् । अ॒स्मै॒ । कृ॒णु॒थ॒ । नि॒ऽअञ्च॑नम् । दुः॒ऽगे । चि॒त् । आ । सु॒ऽस॒र॒णम् । ए॒षा । चि॒त् । अ॒स्मा॒त् । अ॒शनिः॑ । प॒रः । नु । सा । अस्रे॑धन्ती । वि । न॒श्य॒तु॒ ॥
अज्रे । चित् । अस्मै । कृणुथ । निऽअञ्चनम् । दुःऽगे । चित् । आ । सुऽसरणम् । एषा । चित् । अस्मात् । अशनिः । परः । नु । सा । अस्रेधन्ती । वि । नश्यतु ॥