rigveda/8/27/17

ऋ॒ते स वि॑न्दते यु॒धः सु॒गेभि॑र्या॒त्यध्व॑नः । अ॒र्य॒मा मि॒त्रो वरु॑ण॒: सरा॑तयो॒ यं त्राय॑न्ते स॒जोष॑सः ॥

ऋ॒ते । सः । वि॒न्द॒ते॒ । यु॒धः । सु॒ऽगेभिः॑ । या॒ति॒ । अध्व॑नः । अ॒र्य॒मा । मि॒त्रः । वरु॑णः॒ । सऽरा॑तयः । यम् । त्राय॑न्ते । स॒ऽजोष॑सः ॥

ऋषिः - मनुर्वैवस्वतः

देवता - विश्वेदेवा:

छन्दः - विराट्पङ्क्ति

स्वरः - पञ्चमः

स्वर सहित मन्त्र

ऋ॒ते स वि॑न्दते यु॒धः सु॒गेभि॑र्या॒त्यध्व॑नः । अ॒र्य॒मा मि॒त्रो वरु॑ण॒: सरा॑तयो॒ यं त्राय॑न्ते स॒जोष॑सः ॥

स्वर सहित पद पाठ

ऋ॒ते । सः । वि॒न्द॒ते॒ । यु॒धः । सु॒ऽगेभिः॑ । या॒ति॒ । अध्व॑नः । अ॒र्य॒मा । मि॒त्रः । वरु॑णः॒ । सऽरा॑तयः । यम् । त्राय॑न्ते । स॒ऽजोष॑सः ॥


स्वर रहित मन्त्र

ऋते स विन्दते युधः सुगेभिर्यात्यध्वनः । अर्यमा मित्रो वरुण: सरातयो यं त्रायन्ते सजोषसः ॥


स्वर रहित पद पाठ

ऋते । सः । विन्दते । युधः । सुऽगेभिः । याति । अध्वनः । अर्यमा । मित्रः । वरुणः । सऽरातयः । यम् । त्रायन्ते । सऽजोषसः ॥