rigveda/8/26/20
ऋषिः - विश्वमना वैयश्वो व्यश्वो वाङ्गिरसः
देवता - वायु:
छन्दः - विराडनुष्टुप्
स्वरः - गान्धारः
यु॒क्ष्व । हि । त्वम् । र॒थ॒ऽसहा॑ । यु॒वस्व॑ । पोष्या॑ । व॒सो॒ इति॑ । आत् । नः॒ । वा॒यो॒ इति॑ । मधु॑ । पि॒ब॒ । अ॒स्माक॑म् । सव॑ना । आ । ग॒हि॒ ॥
युक्ष्व । हि । त्वम् । रथऽसहा । युवस्व । पोष्या । वसो इति । आत् । नः । वायो इति । मधु । पिब । अस्माकम् । सवना । आ । गहि ॥