ऋषिः - विश्वमना वैयश्वः

देवता - मित्रावरुणौ

छन्दः - निचृदुष्णिक्

स्वरः - ऋषभः

PreviousNext
स्वर सहित मन्त्र

सं या दानू॑नि ये॒मथु॑र्दि॒व्याः पार्थि॑वी॒रिष॑ः । नभ॑स्वती॒रा वां॑ चरन्तु वृ॒ष्टय॑ः ॥

स्वर सहित पद पाठ

सम् । या । दानू॑नि । ये॒मथुः॑ । दि॒व्याः । पार्थि॑वीः । इषः॑ । नभ॑स्वतीः । आ । वा॒म् । च॒र॒न्तु॒ । वृ॒ष्टयः॑ ॥


स्वर रहित मन्त्र

सं या दानूनि येमथुर्दिव्याः पार्थिवीरिषः । नभस्वतीरा वां चरन्तु वृष्टयः ॥


स्वर रहित पद पाठ

सम् । या । दानूनि । येमथुः । दिव्याः । पार्थिवीः । इषः । नभस्वतीः । आ । वाम् । चरन्तु । वृष्टयः ॥