rigveda/8/25/20

वचो॑ दी॒र्घप्र॑सद्म॒नीशे॒ वाज॑स्य॒ गोम॑तः । ईशे॒ हि पि॒त्वो॑ऽवि॒षस्य॑ दा॒वने॑ ॥

वचः॑ । दी॒र्घऽप्र॑सद्मनि । ईशे॑ । वाज॑स्य । गोऽम॑तः । ईशे॑ । हि । पि॒त्वः॑ । अ॒वि॒षस्य॑ । दा॒वने॑ ॥

ऋषिः - विश्वमना वैयश्वः

देवता - मित्रावरुणौ

छन्दः - विराडुष्निक्

स्वरः - ऋषभः

स्वर सहित मन्त्र

वचो॑ दी॒र्घप्र॑सद्म॒नीशे॒ वाज॑स्य॒ गोम॑तः । ईशे॒ हि पि॒त्वो॑ऽवि॒षस्य॑ दा॒वने॑ ॥

स्वर सहित पद पाठ

वचः॑ । दी॒र्घऽप्र॑सद्मनि । ईशे॑ । वाज॑स्य । गोऽम॑तः । ईशे॑ । हि । पि॒त्वः॑ । अ॒वि॒षस्य॑ । दा॒वने॑ ॥


स्वर रहित मन्त्र

वचो दीर्घप्रसद्मनीशे वाजस्य गोमतः । ईशे हि पित्वोऽविषस्य दावने ॥


स्वर रहित पद पाठ

वचः । दीर्घऽप्रसद्मनि । ईशे । वाजस्य । गोऽमतः । ईशे । हि । पित्वः । अविषस्य । दावने ॥