rigveda/8/24/30
ऋषिः - विश्वमना वैयश्वः
देवता - वरोः सौषाम्णस्य दानस्तुतिः
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
यत् । त्वा॒ । पृ॒च्छात् । ई॒जा॒नः । कु॒ह॒या । कु॒ह॒या॒ऽकृ॒ते॒ । ए॒षः । अप॑ऽश्रितः । व॒लः । गो॒ऽम॒तीम् । अव॑ । ति॒ष्ठ॒ति॒ ॥
यत् । त्वा । पृच्छात् । ईजानः । कुहया । कुहयाऽकृते । एषः । अपऽश्रितः । वलः । गोऽमतीम् । अव । तिष्ठति ॥