rigveda/8/24/16

एदु॒ मध्वो॑ म॒दिन्त॑रं सि॒ञ्च वा॑ध्वर्यो॒ अन्ध॑सः । ए॒वा हि वी॒रः स्तव॑ते स॒दावृ॑धः ॥

आ । इत् । ऊँ॒ इति॑ । मध्वः॑ । म॒दिन्ऽत॑रम् । सि॒ञ्च । वा॒ । अ॒ध्व॒र्यो॒ इति॑ । अन्ध॑सः । ए॒व । हि । वी॒रः । स्तव॑ते । स॒दाऽवृ॑धः ॥

ऋषिः - विश्वमना वैयश्वः

देवता - इन्द्र:

छन्दः - उष्णिक्

स्वरः - ऋषभः

स्वर सहित मन्त्र

एदु॒ मध्वो॑ म॒दिन्त॑रं सि॒ञ्च वा॑ध्वर्यो॒ अन्ध॑सः । ए॒वा हि वी॒रः स्तव॑ते स॒दावृ॑धः ॥

स्वर सहित पद पाठ

आ । इत् । ऊँ॒ इति॑ । मध्वः॑ । म॒दिन्ऽत॑रम् । सि॒ञ्च । वा॒ । अ॒ध्व॒र्यो॒ इति॑ । अन्ध॑सः । ए॒व । हि । वी॒रः । स्तव॑ते । स॒दाऽवृ॑धः ॥


स्वर रहित मन्त्र

एदु मध्वो मदिन्तरं सिञ्च वाध्वर्यो अन्धसः । एवा हि वीरः स्तवते सदावृधः ॥


स्वर रहित पद पाठ

आ । इत् । ऊँ इति । मध्वः । मदिन्ऽतरम् । सिञ्च । वा । अध्वर्यो इति । अन्धसः । एव । हि । वीरः । स्तवते । सदाऽवृधः ॥