ऋषिः - विश्वमना वैयश्वः

देवता - इन्द्र:

छन्दः - निचृदुष्णिक्

स्वरः - ऋषभः

PreviousNext
स्वर सहित मन्त्र

नू अ॒न्यत्रा॑ चिदद्रिव॒स्त्वन्नो॑ जग्मुरा॒शस॑ः । मघ॑वञ्छ॒ग्धि तव॒ तन्न॑ ऊ॒तिभि॑ः ॥

स्वर सहित पद पाठ

नु । अ॒न्यत्र॑ । चि॒त् । अ॒द्रि॒ऽवः॒ । त्वत् । नः॑ । ज॒ग्मुः॒ । आ॒ऽशसः॑ । मघ॑ऽवन् । श॒ग्धि । तव॑ । तत् । नः॒ । ऊ॒तिऽभिः॑ ॥


स्वर रहित मन्त्र

नू अन्यत्रा चिदद्रिवस्त्वन्नो जग्मुराशसः । मघवञ्छग्धि तव तन्न ऊतिभिः ॥


स्वर रहित पद पाठ

नु । अन्यत्र । चित् । अद्रिऽवः । त्वत् । नः । जग्मुः । आऽशसः । मघऽवन् । शग्धि । तव । तत् । नः । ऊतिऽभिः ॥