rigveda/8/23/6
ऋषिः - विश्वमना वैयश्वः
देवता - अग्निः
छन्दः - उष्णिक्
स्वरः - ऋषभः
अग्ने॑ । या॒हि । सु॒श॒स्तिऽभिः॑ । ह॒व्या । जुह्वा॑नः । आ॒नु॒षक् । यथा॑ । दू॒तः । ब॒भूथ॑ । ह॒व्य॒ऽवाह॑नः ॥
अग्ने । याहि । सुशस्तिऽभिः । हव्या । जुह्वानः । आनुषक् । यथा । दूतः । बभूथ । हव्यऽवाहनः ॥