rigveda/8/23/10
ऋषिः - विश्वमना वैयश्वः
देवता - अग्निः
छन्दः - निचृदुष्णिक्
स्वरः - ऋषभः
अच्छ॑ । नः॒ । अङ्गि॑रःऽतमम् । य॒ज्ञासः॑ । य॒न्तु॒ । स॒म्ऽयतः॑ । होता॑ । यः । अस्ति॑ । वि॒क्षु । आ । य॒शःऽत॑मः ॥
अच्छ । नः । अङ्गिरःऽतमम् । यज्ञासः । यन्तु । सम्ऽयतः । होता । यः । अस्ति । विक्षु । आ । यशःऽतमः ॥