rigveda/8/20/6

अमा॑य वो मरुतो॒ यात॑वे॒ द्यौर्जिही॑त॒ उत्त॑रा बृ॒हत् । यत्रा॒ नरो॒ देदि॑शते त॒नूष्वा त्वक्षां॑सि बा॒ह्वो॑जसः ॥

अमा॑य । वः॒ । म॒रु॒तः॒ । यात॑वे । द्यौः । जिही॑ते । उत्ऽत॑रा । बृ॒हत् । यत्र॑ । नरः॑ । देदि॑शते । त॒नूषु॑ । आ । त्वक्षां॑सि ब॒हुऽओ॑जसः ॥

ऋषिः - सोभरिः काण्वः

देवता - मरूतः

छन्दः - पादनिचृत्पङ्क्ति

स्वरः - पञ्चमः

स्वर सहित मन्त्र

अमा॑य वो मरुतो॒ यात॑वे॒ द्यौर्जिही॑त॒ उत्त॑रा बृ॒हत् । यत्रा॒ नरो॒ देदि॑शते त॒नूष्वा त्वक्षां॑सि बा॒ह्वो॑जसः ॥

स्वर सहित पद पाठ

अमा॑य । वः॒ । म॒रु॒तः॒ । यात॑वे । द्यौः । जिही॑ते । उत्ऽत॑रा । बृ॒हत् । यत्र॑ । नरः॑ । देदि॑शते । त॒नूषु॑ । आ । त्वक्षां॑सि ब॒हुऽओ॑जसः ॥


स्वर रहित मन्त्र

अमाय वो मरुतो यातवे द्यौर्जिहीत उत्तरा बृहत् । यत्रा नरो देदिशते तनूष्वा त्वक्षांसि बाह्वोजसः ॥


स्वर रहित पद पाठ

अमाय । वः । मरुतः । यातवे । द्यौः । जिहीते । उत्ऽतरा । बृहत् । यत्र । नरः । देदिशते । तनूषु । आ । त्वक्षांसि बहुऽओजसः ॥