ऋषिः - मेधातिथिः काण्वः प्रियमेधश्चाङ्गिरसः

देवता - इन्द्र:

छन्दः - निचृदार्षीगायत्री

स्वरः - षड्जः

PreviousNext
स्वर सहित मन्त्र

हन्ता॑ वृ॒त्रं दक्षि॑णे॒नेन्द्र॑ः पु॒रू पु॑रुहू॒तः । म॒हान्म॒हीभि॒ः शची॑भिः ॥

स्वर सहित पद पाठ

हन्त॑ । वृ॒त्रम् । दक्षि॑णेन । इन्द्रः॑ । पु॒रु । पु॒रु॒ऽहू॒तः । म॒हान् । म॒हीभिः॑ । शची॑भिः ॥


स्वर रहित मन्त्र

हन्ता वृत्रं दक्षिणेनेन्द्रः पुरू पुरुहूतः । महान्महीभिः शचीभिः ॥


स्वर रहित पद पाठ

हन्त । वृत्रम् । दक्षिणेन । इन्द्रः । पुरु । पुरुऽहूतः । महान् । महीभिः । शचीभिः ॥