rigveda/8/2/14

उ॒क्थं च॒न श॒स्यमा॑न॒मगो॑र॒रिरा चि॑केत । न गा॑य॒त्रं गी॒यमा॑नम् ॥

उ॒क्थम् । च॒न । श॒स्यमा॑नम् । अगोः॑ । अ॒रिः । आ । चि॒के॒त॒ । न । गा॒य॒त्रम् । गी॒यमा॑नम् ॥

ऋषिः - मेधातिथिः काण्वः प्रियमेधश्चाङ्गिरसः

देवता - इन्द्र:

छन्दः - आर्षीगायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

उ॒क्थं च॒न श॒स्यमा॑न॒मगो॑र॒रिरा चि॑केत । न गा॑य॒त्रं गी॒यमा॑नम् ॥

स्वर सहित पद पाठ

उ॒क्थम् । च॒न । श॒स्यमा॑नम् । अगोः॑ । अ॒रिः । आ । चि॒के॒त॒ । न । गा॒य॒त्रम् । गी॒यमा॑नम् ॥


स्वर रहित मन्त्र

उक्थं चन शस्यमानमगोररिरा चिकेत । न गायत्रं गीयमानम् ॥


स्वर रहित पद पाठ

उक्थम् । चन । शस्यमानम् । अगोः । अरिः । आ । चिकेत । न । गायत्रम् । गीयमानम् ॥