rigveda/8/19/25

यद॑ग्ने॒ मर्त्य॒स्त्वं स्याम॒हं मि॑त्रमहो॒ अम॑र्त्यः । सह॑सः सूनवाहुत ॥

यत् । अ॒ग्ने॒ । मर्त्यः॑ । त्वम् । स्याम् । अ॒हम् । मि॒त्र॒ऽम॒हः॒ । अम॑र्त्यः । सह॑सः । सू॒नो॒ इति॑ । आ॒ऽहु॒त॒ ॥

ऋषिः - सोभरिः काण्वः

देवता - अग्निः

छन्दः - स्वराडार्चीपङ्क्ति

स्वरः - ऋषभः

स्वर सहित मन्त्र

यद॑ग्ने॒ मर्त्य॒स्त्वं स्याम॒हं मि॑त्रमहो॒ अम॑र्त्यः । सह॑सः सूनवाहुत ॥

स्वर सहित पद पाठ

यत् । अ॒ग्ने॒ । मर्त्यः॑ । त्वम् । स्याम् । अ॒हम् । मि॒त्र॒ऽम॒हः॒ । अम॑र्त्यः । सह॑सः । सू॒नो॒ इति॑ । आ॒ऽहु॒त॒ ॥


स्वर रहित मन्त्र

यदग्ने मर्त्यस्त्वं स्यामहं मित्रमहो अमर्त्यः । सहसः सूनवाहुत ॥


स्वर रहित पद पाठ

यत् । अग्ने । मर्त्यः । त्वम् । स्याम् । अहम् । मित्रऽमहः । अमर्त्यः । सहसः । सूनो इति । आऽहुत ॥