ऋषिः - सोभरिः काण्वः

देवता - अग्निः

छन्दः - सतःपङ्क्ति

स्वरः - पञ्चमः

PreviousNext
स्वर सहित मन्त्र

यस्य॒ त्वमू॒र्ध्वो अ॑ध्व॒राय॒ तिष्ठ॑सि क्ष॒यद्वी॑र॒ः स सा॑धते । सो अर्व॑द्भि॒ः सनि॑ता॒ स वि॑प॒न्युभि॒ः स शूरै॒ः सनि॑ता कृ॒तम् ॥

स्वर सहित पद पाठ

यस्य॑ । त्वम् । ऊ॒र्ध्वः । अ॒ध्व॒राय॑ । तिष्ठ॑सि । क्ष॒यत्ऽवी॑रः । सः । सा॒ध॒ते॒ । सः । अर्व॑त्ऽभिः । सनि॑ता । सः । वि॒प॒न्यु॒ऽभिः॒ । सः । शूरैः॑ । सनि॑ता । कृ॒तम् ॥


स्वर रहित मन्त्र

यस्य त्वमूर्ध्वो अध्वराय तिष्ठसि क्षयद्वीरः स साधते । सो अर्वद्भिः सनिता स विपन्युभिः स शूरैः सनिता कृतम् ॥


स्वर रहित पद पाठ

यस्य । त्वम् । ऊर्ध्वः । अध्वराय । तिष्ठसि । क्षयत्ऽवीरः । सः । साधते । सः । अर्वत्ऽभिः । सनिता । सः । विपन्युऽभिः । सः । शूरैः । सनिता । कृतम् ॥