rigveda/8/18/5

ते हि पु॒त्रासो॒ अदि॑तेर्वि॒दुर्द्वेषां॑सि॒ योत॑वे । अं॒होश्चि॑दुरु॒चक्र॑योऽने॒हस॑: ॥

ते । हि । पु॒त्रासः॑ । अदि॑तेः । वि॒दुः । द्वेषां॑सि । योत॑वे । अं॒होः । चि॒त् । उ॒रु॒ऽचक्र॑यः । अ॒ने॒हसः॑ ॥

ऋषिः - इरिम्बिठिः काण्वः

देवता - आदित्याः

छन्दः - निचृदुष्णिक्

स्वरः - ऋषभः

स्वर सहित मन्त्र

ते हि पु॒त्रासो॒ अदि॑तेर्वि॒दुर्द्वेषां॑सि॒ योत॑वे । अं॒होश्चि॑दुरु॒चक्र॑योऽने॒हस॑: ॥

स्वर सहित पद पाठ

ते । हि । पु॒त्रासः॑ । अदि॑तेः । वि॒दुः । द्वेषां॑सि । योत॑वे । अं॒होः । चि॒त् । उ॒रु॒ऽचक्र॑यः । अ॒ने॒हसः॑ ॥


स्वर रहित मन्त्र

ते हि पुत्रासो अदितेर्विदुर्द्वेषांसि योतवे । अंहोश्चिदुरुचक्रयोऽनेहस: ॥


स्वर रहित पद पाठ

ते । हि । पुत्रासः । अदितेः । विदुः । द्वेषांसि । योतवे । अंहोः । चित् । उरुऽचक्रयः । अनेहसः ॥