rigveda/8/17/11

अ॒यं त॑ इन्द्र॒ सोमो॒ निपू॑तो॒ अधि॑ ब॒र्हिषि॑ । एही॑म॒स्य द्रवा॒ पिब॑ ॥

अ॒यम् । ते॒ । इन्द्र॑ । सोमः॑ । निऽपू॑तः । अधि॑ । ब॒र्हिषि॑ । आ । इ॒हि॒ । ई॒म् । अ॒स्य । द्रव॑ । पिब॑ ॥

ऋषिः - इरिम्बिठिः काण्वः

देवता - इन्द्र:

छन्दः - निचृद्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

अ॒यं त॑ इन्द्र॒ सोमो॒ निपू॑तो॒ अधि॑ ब॒र्हिषि॑ । एही॑म॒स्य द्रवा॒ पिब॑ ॥

स्वर सहित पद पाठ

अ॒यम् । ते॒ । इन्द्र॑ । सोमः॑ । निऽपू॑तः । अधि॑ । ब॒र्हिषि॑ । आ । इ॒हि॒ । ई॒म् । अ॒स्य । द्रव॑ । पिब॑ ॥


स्वर रहित मन्त्र

अयं त इन्द्र सोमो निपूतो अधि बर्हिषि । एहीमस्य द्रवा पिब ॥


स्वर रहित पद पाठ

अयम् । ते । इन्द्र । सोमः । निऽपूतः । अधि । बर्हिषि । आ । इहि । ईम् । अस्य । द्रव । पिब ॥