rigveda/8/16/12

स त्वं न॑ इन्द्र॒ वाजे॑भिर्दश॒स्या च॑ गातु॒या च॑ । अच्छा॑ च नः सु॒म्नं ने॑षि ॥

सः । त्वम् । नः॒ । इ॒न्द्र॒ । वाजे॑भिः । द॒श॒स्य । च॒ । गा॒तु॒ऽय । च॒ । अच्छ॑ । च॒ । नः॒ । सु॒म्नम् । ने॒षि॒ ॥

ऋषिः - इरिम्बिठिः काण्वः

देवता - इन्द्र:

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

स त्वं न॑ इन्द्र॒ वाजे॑भिर्दश॒स्या च॑ गातु॒या च॑ । अच्छा॑ च नः सु॒म्नं ने॑षि ॥

स्वर सहित पद पाठ

सः । त्वम् । नः॒ । इ॒न्द्र॒ । वाजे॑भिः । द॒श॒स्य । च॒ । गा॒तु॒ऽय । च॒ । अच्छ॑ । च॒ । नः॒ । सु॒म्नम् । ने॒षि॒ ॥


स्वर रहित मन्त्र

स त्वं न इन्द्र वाजेभिर्दशस्या च गातुया च । अच्छा च नः सुम्नं नेषि ॥


स्वर रहित पद पाठ

सः । त्वम् । नः । इन्द्र । वाजेभिः । दशस्य । च । गातुऽय । च । अच्छ । च । नः । सुम्नम् । नेषि ॥