rigveda/8/13/8
ऋषिः - नारदः काण्वः
देवता - इन्द्र:
छन्दः - निचृदुष्णिक्
स्वरः - ऋषभः
क्रीळ॑न्ति । अ॒स्य॒ । सू॒नृताः॑ । आपः॑ । न । प्र॒ऽवता॑ । य॒तीः । अ॒या । धि॒या । यः । उ॒च्यते॑ । पतिः॑ । दि॒वः ॥
क्रीळन्ति । अस्य । सूनृताः । आपः । न । प्रऽवता । यतीः । अया । धिया । यः । उच्यते । पतिः । दिवः ॥