ऋषिः - नारदः काण्वः

देवता - इन्द्र:

छन्दः - उष्णिक्

स्वरः - ऋषभः

PreviousNext
स्वर सहित मन्त्र

अ॒भि स्व॑रन्तु॒ ये तव॑ रु॒द्रास॑ः सक्षत॒ श्रिय॑म् । उ॒तो म॒रुत्व॑ती॒र्विशो॑ अ॒भि प्रय॑ः ॥

स्वर सहित पद पाठ

अ॒भि । स्व॒र॒न्तु॒ । ये । तव॑ । रु॒द्रासः॑ । स॒क्ष॒त॒ । श्रिय॑म् । उ॒तो इति॑ । म॒रुत्व॑तीः । विशः॑ । अ॒भि । प्रयः॑ ॥


स्वर रहित मन्त्र

अभि स्वरन्तु ये तव रुद्रासः सक्षत श्रियम् । उतो मरुत्वतीर्विशो अभि प्रयः ॥


स्वर रहित पद पाठ

अभि । स्वरन्तु । ये । तव । रुद्रासः । सक्षत । श्रियम् । उतो इति । मरुत्वतीः । विशः । अभि । प्रयः ॥