rigveda/8/102/14

यस्य॑ त्रि॒धात्ववृ॑तं ब॒र्हिस्त॒स्थावसं॑दिनम् । आप॑श्चि॒न्नि द॑धा प॒दम् ॥

यस्य॑ । त्रि॒ऽधातु॑ । अवृ॑तम् । ब॒र्हिः । त॒स्थौ । अस॑म्ऽदिनम् । आपः॑ । चि॒त् । नि । द॒ध॒ । प॒दम् ॥

ऋषिः - प्रयोगो भार्गव अग्निर्वा पावको बार्हस्पत्यः ; अथवाग्नी गृहपतियविष्ठौ सहसः सुतौ तयोर्वान्यतरः

देवता - अग्निः

छन्दः - निचृद्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

यस्य॑ त्रि॒धात्ववृ॑तं ब॒र्हिस्त॒स्थावसं॑दिनम् । आप॑श्चि॒न्नि द॑धा प॒दम् ॥

स्वर सहित पद पाठ

यस्य॑ । त्रि॒ऽधातु॑ । अवृ॑तम् । ब॒र्हिः । त॒स्थौ । अस॑म्ऽदिनम् । आपः॑ । चि॒त् । नि । द॒ध॒ । प॒दम् ॥


स्वर रहित मन्त्र

यस्य त्रिधात्ववृतं बर्हिस्तस्थावसंदिनम् । आपश्चिन्नि दधा पदम् ॥


स्वर रहित पद पाठ

यस्य । त्रिऽधातु । अवृतम् । बर्हिः । तस्थौ । असम्ऽदिनम् । आपः । चित् । नि । दध । पदम् ॥