rigveda/8/101/5

प्र मि॒त्राय॒ प्रार्य॒म्णे स॑च॒थ्य॑मृतावसो । व॒रू॒थ्यं१॒॑ वरु॑णे॒ छन्द्यं॒ वच॑: स्तो॒त्रं राज॑सु गायत ॥

प्र । मि॒त्राय॑ । प्र । अ॒र्य॒म्णे । स॒च॒थ्य॑म् । ऋ॒त॒व॒सो॒ इत्यृ॑तऽवसो । व॒रू॒थ्य॑म् । वरु॑णे । छन्द्य॑म् । वचः॑ । स्तो॒त्रम् । राज॑ऽसु । गा॒य॒त॒ ॥

ऋषिः - जमदग्निभार्गवः

देवता - मित्रावरुणौ, आदित्याः

छन्दः - स्वरडार्चीबृहती

स्वरः - मध्यमः

स्वर सहित मन्त्र

प्र मि॒त्राय॒ प्रार्य॒म्णे स॑च॒थ्य॑मृतावसो । व॒रू॒थ्यं१॒॑ वरु॑णे॒ छन्द्यं॒ वच॑: स्तो॒त्रं राज॑सु गायत ॥

स्वर सहित पद पाठ

प्र । मि॒त्राय॑ । प्र । अ॒र्य॒म्णे । स॒च॒थ्य॑म् । ऋ॒त॒व॒सो॒ इत्यृ॑तऽवसो । व॒रू॒थ्य॑म् । वरु॑णे । छन्द्य॑म् । वचः॑ । स्तो॒त्रम् । राज॑ऽसु । गा॒य॒त॒ ॥


स्वर रहित मन्त्र

प्र मित्राय प्रार्यम्णे सचथ्यमृतावसो । वरूथ्यं१ वरुणे छन्द्यं वच: स्तोत्रं राजसु गायत ॥


स्वर रहित पद पाठ

प्र । मित्राय । प्र । अर्यम्णे । सचथ्यम् । ऋतवसो इत्यृतऽवसो । वरूथ्यम् । वरुणे । छन्द्यम् । वचः । स्तोत्रम् । राजऽसु । गायत ॥