ऋषिः - मेधातिथिमेध्यातिथी काण्वौ

देवता - इन्द्र:

छन्दः - आर्षीबृहती

स्वरः - मध्यमः

PreviousNext
स्वर सहित मन्त्र

य ऋ॒ते चि॑दभि॒श्रिष॑ः पु॒रा ज॒त्रुभ्य॑ आ॒तृद॑ः । संधा॑ता सं॒धिं म॒घवा॑ पुरू॒वसु॒रिष्क॑र्ता॒ विह्रु॑तं॒ पुन॑ः ॥

स्वर सहित पद पाठ

यः । ऋ॒ते । चि॒त् । अ॒भि॒ऽश्रिषः॑ । पु॒रा । ज॒त्रुऽभ्यः॑ । आ॒ऽतृदः॑ । सम्ऽधा॑ता । स॒न्धि॑म् । म॒घऽवा॑ । पु॒रु॒ऽवसुः॑ । इष्क॑र्ता । विऽह्रु॑तम् । पुन॒रिति॑ ॥


स्वर रहित मन्त्र

य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः । संधाता संधिं मघवा पुरूवसुरिष्कर्ता विह्रुतं पुनः ॥


स्वर रहित पद पाठ

यः । ऋते । चित् । अभिऽश्रिषः । पुरा । जत्रुऽभ्यः । आऽतृदः । सम्ऽधाता । सन्धिम् । मघऽवा । पुरुऽवसुः । इष्कर्ता । विऽह्रुतम् । पुनरिति ॥