rigveda/7/99/4

उ॒रुं य॒ज्ञाय॑ चक्रथुरु लो॒कं ज॒नय॑न्ता॒ सूर्य॑मु॒षास॑म॒ग्निम् । दास॑स्य चिद्वृषशि॒प्रस्य॑ मा॒या ज॒घ्नथु॑र्नरा पृत॒नाज्ये॑षु ॥

उ॒रुम् । य॒ज्ञाय॑ । च॒क्र॒थुः॒ । ऊँ॒ इति॑ । लो॒कम् । ज॒नय॑न्ता । सूर्य॑म् । उ॒षस॑म् । अ॒ग्निम् । दास॑स्य । चि॒त् । वृ॒ष॒ऽशि॒प्रस्य॑ । मा॒याः । ज॒घ्नथुः॑ । न॒रा॒ । पृ॒त॒नाज्ये॑षु ॥

ऋषिः - वसिष्ठः

देवता - इन्द्राविष्णू

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

उ॒रुं य॒ज्ञाय॑ चक्रथुरु लो॒कं ज॒नय॑न्ता॒ सूर्य॑मु॒षास॑म॒ग्निम् । दास॑स्य चिद्वृषशि॒प्रस्य॑ मा॒या ज॒घ्नथु॑र्नरा पृत॒नाज्ये॑षु ॥

स्वर सहित पद पाठ

उ॒रुम् । य॒ज्ञाय॑ । च॒क्र॒थुः॒ । ऊँ॒ इति॑ । लो॒कम् । ज॒नय॑न्ता । सूर्य॑म् । उ॒षस॑म् । अ॒ग्निम् । दास॑स्य । चि॒त् । वृ॒ष॒ऽशि॒प्रस्य॑ । मा॒याः । ज॒घ्नथुः॑ । न॒रा॒ । पृ॒त॒नाज्ये॑षु ॥


स्वर रहित मन्त्र

उरुं यज्ञाय चक्रथुरु लोकं जनयन्ता सूर्यमुषासमग्निम् । दासस्य चिद्वृषशिप्रस्य माया जघ्नथुर्नरा पृतनाज्येषु ॥


स्वर रहित पद पाठ

उरुम् । यज्ञाय । चक्रथुः । ऊँ इति । लोकम् । जनयन्ता । सूर्यम् । उषसम् । अग्निम् । दासस्य । चित् । वृषऽशिप्रस्य । मायाः । जघ्नथुः । नरा । पृतनाज्येषु ॥