rigveda/7/94/5

ता हि शश्व॑न्त॒ ईळ॑त इ॒त्था विप्रा॑स ऊ॒तये॑ । स॒बाधो॒ वाज॑सातये ॥

ता । हि । शश्व॑न्तः । ईळ॑ते । इ॒त्था । विप्रा॑सः । ऊ॒तये॑ । स॒ऽबाधः॑ । वाज॑ऽसातये ॥

ऋषिः - वसिष्ठः

देवता - इन्द्राग्नी

छन्दः - आर्षीगायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

ता हि शश्व॑न्त॒ ईळ॑त इ॒त्था विप्रा॑स ऊ॒तये॑ । स॒बाधो॒ वाज॑सातये ॥

स्वर सहित पद पाठ

ता । हि । शश्व॑न्तः । ईळ॑ते । इ॒त्था । विप्रा॑सः । ऊ॒तये॑ । स॒ऽबाधः॑ । वाज॑ऽसातये ॥


स्वर रहित मन्त्र

ता हि शश्वन्त ईळत इत्था विप्रास ऊतये । सबाधो वाजसातये ॥


स्वर रहित पद पाठ

ता । हि । शश्वन्तः । ईळते । इत्था । विप्रासः । ऊतये । सऽबाधः । वाजऽसातये ॥