rigveda/7/93/5

सं यन्म॒ही मि॑थ॒ती स्पर्ध॑माने तनू॒रुचा॒ शूर॑साता॒ यतै॑ते । अदे॑वयुं वि॒दथे॑ देव॒युभि॑: स॒त्रा ह॑तं सोम॒सुता॒ जने॑न ॥

सम् । यत् । म॒ही इति॑ । मि॒थ॒ती इति॑ । स्पर्ध॑माने॒ इति॑ । त॒नू॒ऽरुचा॑ । शूर॑ऽसाता । यतै॑ते । अदे॑वऽयुम् । वि॒दथे॑ । दे॒व॒युऽभिः॑ । स॒त्रा । ह॒त॒म् । सो॒म॒ऽसुता॑ । जने॑न ॥

ऋषिः - वसिष्ठः

देवता - इन्द्राग्नी

छन्दः - आर्षीत्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

सं यन्म॒ही मि॑थ॒ती स्पर्ध॑माने तनू॒रुचा॒ शूर॑साता॒ यतै॑ते । अदे॑वयुं वि॒दथे॑ देव॒युभि॑: स॒त्रा ह॑तं सोम॒सुता॒ जने॑न ॥

स्वर सहित पद पाठ

सम् । यत् । म॒ही इति॑ । मि॒थ॒ती इति॑ । स्पर्ध॑माने॒ इति॑ । त॒नू॒ऽरुचा॑ । शूर॑ऽसाता । यतै॑ते । अदे॑वऽयुम् । वि॒दथे॑ । दे॒व॒युऽभिः॑ । स॒त्रा । ह॒त॒म् । सो॒म॒ऽसुता॑ । जने॑न ॥


स्वर रहित मन्त्र

सं यन्मही मिथती स्पर्धमाने तनूरुचा शूरसाता यतैते । अदेवयुं विदथे देवयुभि: सत्रा हतं सोमसुता जनेन ॥


स्वर रहित पद पाठ

सम् । यत् । मही इति । मिथती इति । स्पर्धमाने इति । तनूऽरुचा । शूरऽसाता । यतैते । अदेवऽयुम् । विदथे । देवयुऽभिः । सत्रा । हतम् । सोमऽसुता । जनेन ॥