rigveda/7/82/4
ऋषिः - वसिष्ठः
देवता - इन्द्रावरुणौ
छन्दः - आर्षीजगती
स्वरः - निषादः
यु॒वाम् । इत् । यु॒त्ऽसु । पृत॑नासु । वह्न॑यः । यु॒वाम् । क्षेम॑स्य । प्र॒ऽस॒वे । मि॒तऽज्ञ॑वः । ई॒शा॒ना । वस्वः॑ । उ॒भय॑स्य । का॒रवः॑ । इन्द्रा॑वरुणा । सु॒ऽहवा॑ । ह॒वा॒म॒हे॒ ॥
युवाम् । इत् । युत्ऽसु । पृतनासु । वह्नयः । युवाम् । क्षेमस्य । प्रऽसवे । मितऽज्ञवः । ईशाना । वस्वः । उभयस्य । कारवः । इन्द्रावरुणा । सुऽहवा । हवामहे ॥