rigveda/7/75/2
ऋषिः - वसिष्ठः
देवता - उषाः
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
म॒हे । नः॒ । अ॒द्य । सु॒वि॒ताय॑ । बो॒धि॒ । उषः॑ । म॒हे । सौभ॑गाय । प्र । य॒न्धि॒ । चि॒त्रम् । र॒यिम् । य॒शस॑म् । धे॒हि॒ । अ॒स्मे इति॑ । देवि॑ । मर्ते॑षु । मा॒नु॒षि॒ । श्र॒व॒स्युम् ॥
महे । नः । अद्य । सुविताय । बोधि । उषः । महे । सौभगाय । प्र । यन्धि । चित्रम् । रयिम् । यशसम् । धेहि । अस्मे इति । देवि । मर्तेषु । मानुषि । श्रवस्युम् ॥