rigveda/7/74/2
ऋषिः - वसिष्ठः
देवता - अश्विनौ
छन्दः - आर्षीभुरिग्बृहती
स्वरः - मध्यमः
यु॒वम् । चि॒त्रम् । द॒द॒थुः॒ । भोज॑नम् । न॒रा॒ । चोदे॑थाम् । सू॒नृता॑ऽवते । अ॒र्वाक् । रथ॑म् । सऽम॑नसा । नि । य॒च्छ॒त॒म् । पिब॑तम् । सो॒म्यम् । मधु॑ ॥
युवम् । चित्रम् । ददथुः । भोजनम् । नरा । चोदेथाम् । सूनृताऽवते । अर्वाक् । रथम् । सऽमनसा । नि । यच्छतम् । पिबतम् । सोम्यम् । मधु ॥