rigveda/7/69/5
ऋषिः - वसिष्ठः
देवता - अश्विनौ
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
यः । ह॒ । स्यः । वा॒म् । र॒थि॒रा॒ । वस्ते॑ । उ॒स्राः । रथः॑ । यु॒जा॒नः । प॒रि॒ऽयाति॑ । व॒र्तिः । तेन॑ । नः॒ । शम् । योः । उ॒षसः॑ । विऽउ॑ष्टौ । नि । अ॒श्वि॒ना॒ । व॒ह॒त॒म् । य॒ज्ञे । अ॒स्मिन् ॥
यः । ह । स्यः । वाम् । रथिरा । वस्ते । उस्राः । रथः । युजानः । परिऽयाति । वर्तिः । तेन । नः । शम् । योः । उषसः । विऽउष्टौ । नि । अश्विना । वहतम् । यज्ञे । अस्मिन् ॥