rigveda/7/68/3

प्र वां॒ रथो॒ मनो॑जवा इयर्ति ति॒रो रजां॑स्यश्विना श॒तोति॑: । अ॒स्मभ्यं॑ सूर्यावसू इया॒नः ॥

प्र । वा॒म् । रथः॑ । मनः॑ऽजवा । इ॒य॒र्ति॒ । ति॒रः । रजां॑सि । अ॒श्वि॒ना॒ । श॒तऽऊ॑तिः । अ॒स्मभ्य॑म् । सू॒र्या॒व॒सू॒ इति॑ । इ॒या॒नः ॥

ऋषिः - वसिष्ठः

देवता - अश्विनौ

छन्दः - विराडार्चीत्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

प्र वां॒ रथो॒ मनो॑जवा इयर्ति ति॒रो रजां॑स्यश्विना श॒तोति॑: । अ॒स्मभ्यं॑ सूर्यावसू इया॒नः ॥

स्वर सहित पद पाठ

प्र । वा॒म् । रथः॑ । मनः॑ऽजवा । इ॒य॒र्ति॒ । ति॒रः । रजां॑सि । अ॒श्वि॒ना॒ । श॒तऽऊ॑तिः । अ॒स्मभ्य॑म् । सू॒र्या॒व॒सू॒ इति॑ । इ॒या॒नः ॥


स्वर रहित मन्त्र

प्र वां रथो मनोजवा इयर्ति तिरो रजांस्यश्विना शतोति: । अस्मभ्यं सूर्यावसू इयानः ॥


स्वर रहित पद पाठ

प्र । वाम् । रथः । मनःऽजवा । इयर्ति । तिरः । रजांसि । अश्विना । शतऽऊतिः । अस्मभ्यम् । सूर्यावसू इति । इयानः ॥