rigveda/7/61/1

उद्वां॒ चक्षु॑र्वरुण सु॒प्रती॑कं दे॒वयो॑रेति॒ सूर्य॑स्तत॒न्वान्। अ॒भि यो विश्वा॒ भुव॑नानि॒ चष्टे॒ स म॒न्युं मर्त्ये॒ष्वा चि॑केत ॥१॥

उत् । वा॒म् । चक्षुः॑ । व॒रु॒णा॒ । सु॒ऽप्रती॑कम् । दे॒वयोः॑ । ए॒ति॒ । सूर्यः॑ । त॒त॒न्वान् । अ॒भि । यः । विश्वा॑ । भुव॑नानि । च॒ष्टे॒ । सः । म॒न्युम् । मर्त्ये॑षु । आ । चि॒के॒त॒ ॥

ऋषिः - वसिष्ठः

देवता - मित्रावरुणौ

छन्दः - भुरिक्पङ्क्तिः

स्वरः - पञ्चमः

स्वर सहित मन्त्र

उद्वां॒ चक्षु॑र्वरुण सु॒प्रती॑कं दे॒वयो॑रेति॒ सूर्य॑स्तत॒न्वान्। अ॒भि यो विश्वा॒ भुव॑नानि॒ चष्टे॒ स म॒न्युं मर्त्ये॒ष्वा चि॑केत ॥१॥

स्वर सहित पद पाठ

उत् । वा॒म् । चक्षुः॑ । व॒रु॒णा॒ । सु॒ऽप्रती॑कम् । दे॒वयोः॑ । ए॒ति॒ । सूर्यः॑ । त॒त॒न्वान् । अ॒भि । यः । विश्वा॑ । भुव॑नानि । च॒ष्टे॒ । सः । म॒न्युम् । मर्त्ये॑षु । आ । चि॒के॒त॒ ॥


स्वर रहित मन्त्र

उद्वां चक्षुर्वरुण सुप्रतीकं देवयोरेति सूर्यस्ततन्वान्। अभि यो विश्वा भुवनानि चष्टे स मन्युं मर्त्येष्वा चिकेत ॥१॥


स्वर रहित पद पाठ

उत् । वाम् । चक्षुः । वरुणा । सुऽप्रतीकम् । देवयोः । एति । सूर्यः । ततन्वान् । अभि । यः । विश्वा । भुवनानि । चष्टे । सः । मन्युम् । मर्त्येषु । आ । चिकेत ॥