rigveda/7/60/12
ऋषिः - वसिष्ठः
देवता - मित्रावरुणौ
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
इ॒यम् । दे॒व॒ । पु॒रःऽहि॑तिः । यु॒वऽभ्या॑म् । य॒ज्ञेषु॑ । मि॒त्रा॒व॒रु॒णौ॒ । अ॒का॒रि॒ । विश्वा॑नि । दुः॒ऽगा । पि॒पृ॒त॒म् । ति॒रः । नः॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥
इयम् । देव । पुरःऽहितिः । युवऽभ्याम् । यज्ञेषु । मित्रावरुणौ । अकारि । विश्वानि । दुःऽगा । पिपृतम् । तिरः । नः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥