rigveda/7/60/11

यो ब्रह्म॑णे सुम॒तिमा॒यजा॑ते॒ वाज॑स्य सा॒तौ प॑र॒मस्य॑ रा॒यः। सीक्ष॑न्त म॒न्युं म॒घवा॑नो अ॒र्य उ॒रु क्षया॑य चक्रिरे सु॒धातु॑ ॥११॥

यः । ब्रह्म॑णे । सु॒ऽम॒तिम् । आ॒ऽयजा॑ते । वाज॑स्य । सा॒तौ । प॒र॒मस्य॑ । रा॒यः । सीक्ष॑न्त । म॒न्युम् । म॒घऽवा॑नः । अ॒र्यः । उ॒रु । क्षया॑य । च॒क्रि॒रे॒ । सु॒ऽधातु॑ ॥

ऋषिः - वसिष्ठः

देवता - मित्रावरुणौ

छन्दः - त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

यो ब्रह्म॑णे सुम॒तिमा॒यजा॑ते॒ वाज॑स्य सा॒तौ प॑र॒मस्य॑ रा॒यः। सीक्ष॑न्त म॒न्युं म॒घवा॑नो अ॒र्य उ॒रु क्षया॑य चक्रिरे सु॒धातु॑ ॥११॥

स्वर सहित पद पाठ

यः । ब्रह्म॑णे । सु॒ऽम॒तिम् । आ॒ऽयजा॑ते । वाज॑स्य । सा॒तौ । प॒र॒मस्य॑ । रा॒यः । सीक्ष॑न्त । म॒न्युम् । म॒घऽवा॑नः । अ॒र्यः । उ॒रु । क्षया॑य । च॒क्रि॒रे॒ । सु॒ऽधातु॑ ॥


स्वर रहित मन्त्र

यो ब्रह्मणे सुमतिमायजाते वाजस्य सातौ परमस्य रायः। सीक्षन्त मन्युं मघवानो अर्य उरु क्षयाय चक्रिरे सुधातु ॥११॥


स्वर रहित पद पाठ

यः । ब्रह्मणे । सुऽमतिम् । आऽयजाते । वाजस्य । सातौ । परमस्य । रायः । सीक्षन्त । मन्युम् । मघऽवानः । अर्यः । उरु । क्षयाय । चक्रिरे । सुऽधातु ॥