rigveda/7/60/10
ऋषिः - वसिष्ठः
देवता - मित्रावरुणौ
छन्दः - स्वराट्पङ्क्तिः
स्वरः - पञ्चमः
स॒स्वरिति॑ । चि॒त् । हि । सम्ऽऋ॑तिः । त्वे॒षी । ए॒षा॒म् । अ॒पी॒च्ये॑न । सह॑सा । सह॑न्ते । यु॒ष्मत् । भि॒या । वृ॒ष॒णः॒ । रेज॑मानाः । दक्ष॑स्य । चि॒त् । म॒हि॒ना । मृ॒ळत॑ । नः॒ ॥
सस्वरिति । चित् । हि । सम्ऽऋतिः । त्वेषी । एषाम् । अपीच्येन । सहसा । सहन्ते । युष्मत् । भिया । वृषणः । रेजमानाः । दक्षस्य । चित् । महिना । मृळत । नः ॥