rigveda/7/58/1

प्र सा॑क॒मुक्षे॑ अर्चता ग॒णाय॒ यो दैव्य॑स्य॒ धाम्न॒स्तुवि॑ष्मान्। उ॒त क्षो॑दन्ति॒ रोद॑सी महि॒त्वा नक्ष॑न्ते॒ नाकं॒ निर्ऋ॑तेरवं॒शात् ॥१॥

प्र । सा॒क॒म्ऽउक्षे॑ । अ॒र्च॒त॒ । ग॒णाय॑ । यः । दैव्य॑स्य । धाम्नः॑ । तुवि॑ष्मान् । उ॒त । क्षो॒द॒न्ति॒ । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा । नक्ष॑न्ते । नाक॑म् । निःऽऋ॑तेः । अ॒वं॒शात् ॥

ऋषिः - वसिष्ठः

देवता - मरुतः

छन्दः - विराट्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

प्र सा॑क॒मुक्षे॑ अर्चता ग॒णाय॒ यो दैव्य॑स्य॒ धाम्न॒स्तुवि॑ष्मान्। उ॒त क्षो॑दन्ति॒ रोद॑सी महि॒त्वा नक्ष॑न्ते॒ नाकं॒ निर्ऋ॑तेरवं॒शात् ॥१॥

स्वर सहित पद पाठ

प्र । सा॒क॒म्ऽउक्षे॑ । अ॒र्च॒त॒ । ग॒णाय॑ । यः । दैव्य॑स्य । धाम्नः॑ । तुवि॑ष्मान् । उ॒त । क्षो॒द॒न्ति॒ । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा । नक्ष॑न्ते । नाक॑म् । निःऽऋ॑तेः । अ॒वं॒शात् ॥


स्वर रहित मन्त्र

प्र साकमुक्षे अर्चता गणाय यो दैव्यस्य धाम्नस्तुविष्मान्। उत क्षोदन्ति रोदसी महित्वा नक्षन्ते नाकं निर्ऋतेरवंशात् ॥१॥


स्वर रहित पद पाठ

प्र । साकम्ऽउक्षे । अर्चत । गणाय । यः । दैव्यस्य । धाम्नः । तुविष्मान् । उत । क्षोदन्ति । रोदसी इति । महिऽत्वा । नक्षन्ते । नाकम् । निःऽऋतेः । अवंशात् ॥