rigveda/7/57/3
ऋषिः - वसिष्ठः
देवता - मरुतः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
न । ए॒ताव॑त् । अ॒न्ये । म॒रुतः॑ । यथा॑ । इ॒मे । भ्राज॑न्ते । रु॒क्मैः । आयु॑धैः । त॒नूभिः॑ । आ । रोद॑सी॒ इति॑ । वि॒श्व॒ऽपिशः॑ । पि॒शा॒नाः । स॒मा॒नम् । अ॒ञ्जि । अ॒ञ्ज॒ते॒ । शु॒भे । कम् ॥
न । एतावत् । अन्ये । मरुतः । यथा । इमे । भ्राजन्ते । रुक्मैः । आयुधैः । तनूभिः । आ । रोदसी इति । विश्वऽपिशः । पिशानाः । समानम् । अञ्जि । अञ्जते । शुभे । कम् ॥