rigveda/7/56/12

शुची॑ वो ह॒व्या म॑रुतः॒ शुची॑नां॒ शुचिं॑ हिनोम्यध्व॒रं शुचि॑भ्यः। ऋ॒तेन॑ स॒त्यमृ॑त॒साप॑ आय॒ञ्छुचि॑जन्मानः॒ शुच॑यः पाव॒काः ॥१२॥

शुची॑ । वः॒ । ह॒व्या । म॒रु॒तः॒ । शुची॑नाम् । शुचि॑म् । हि॒नो॒मि॒ । अ॒ध्व॒रम् । शुचि॑ऽभ्यः । ऋ॒तेन॑ । स॒त्यम् । ऋ॒त॒ऽसापः॑ । आ॒य॒न् । शुचि॑ऽजन्मानः । शुच॑यः । पा॒व॒काः ॥

ऋषिः - वसिष्ठः

देवता - मरुतः

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

शुची॑ वो ह॒व्या म॑रुतः॒ शुची॑नां॒ शुचिं॑ हिनोम्यध्व॒रं शुचि॑भ्यः। ऋ॒तेन॑ स॒त्यमृ॑त॒साप॑ आय॒ञ्छुचि॑जन्मानः॒ शुच॑यः पाव॒काः ॥१२॥

स्वर सहित पद पाठ

शुची॑ । वः॒ । ह॒व्या । म॒रु॒तः॒ । शुची॑नाम् । शुचि॑म् । हि॒नो॒मि॒ । अ॒ध्व॒रम् । शुचि॑ऽभ्यः । ऋ॒तेन॑ । स॒त्यम् । ऋ॒त॒ऽसापः॑ । आ॒य॒न् । शुचि॑ऽजन्मानः । शुच॑यः । पा॒व॒काः ॥


स्वर रहित मन्त्र

शुची वो हव्या मरुतः शुचीनां शुचिं हिनोम्यध्वरं शुचिभ्यः। ऋतेन सत्यमृतसाप आयञ्छुचिजन्मानः शुचयः पावकाः ॥१२॥


स्वर रहित पद पाठ

शुची । वः । हव्या । मरुतः । शुचीनाम् । शुचिम् । हिनोमि । अध्वरम् । शुचिऽभ्यः । ऋतेन । सत्यम् । ऋतऽसापः । आयन् । शुचिऽजन्मानः । शुचयः । पावकाः ॥