rigveda/7/47/2

तमू॒र्मिमा॑पो॒ मधु॑मत्तमं वो॒ऽपां नपा॑दवत्वाशु॒हेमा॑। यस्मि॒न्निन्द्रो॒ वसु॑भिर्मा॒दया॑ते॒ तम॑श्याम देव॒यन्तो॑ वो अ॒द्य ॥२॥

तम् । ऊ॒र्मिम् । आ॒पः॒ । मधु॑मत्ऽतमम् । वः॒ । अ॒पाम् । नपा॑त् । अ॒व॒तु॒ । आ॒शु॒ऽहेमा॑ । यस्मि॑न् । इन्द्रः॑ । वसु॑ऽभिः । मा॒दया॑ते । तम् । अ॒श्या॒म॒ । दे॒व॒ऽयन्तः॑ । वः॒ । अ॒द्य ॥

ऋषिः - वसिष्ठः

देवता - आपः

छन्दः - विराट्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

तमू॒र्मिमा॑पो॒ मधु॑मत्तमं वो॒ऽपां नपा॑दवत्वाशु॒हेमा॑। यस्मि॒न्निन्द्रो॒ वसु॑भिर्मा॒दया॑ते॒ तम॑श्याम देव॒यन्तो॑ वो अ॒द्य ॥२॥

स्वर सहित पद पाठ

तम् । ऊ॒र्मिम् । आ॒पः॒ । मधु॑मत्ऽतमम् । वः॒ । अ॒पाम् । नपा॑त् । अ॒व॒तु॒ । आ॒शु॒ऽहेमा॑ । यस्मि॑न् । इन्द्रः॑ । वसु॑ऽभिः । मा॒दया॑ते । तम् । अ॒श्या॒म॒ । दे॒व॒ऽयन्तः॑ । वः॒ । अ॒द्य ॥


स्वर रहित मन्त्र

तमूर्मिमापो मधुमत्तमं वोऽपां नपादवत्वाशुहेमा। यस्मिन्निन्द्रो वसुभिर्मादयाते तमश्याम देवयन्तो वो अद्य ॥२॥


स्वर रहित पद पाठ

तम् । ऊर्मिम् । आपः । मधुमत्ऽतमम् । वः । अपाम् । नपात् । अवतु । आशुऽहेमा । यस्मिन् । इन्द्रः । वसुऽभिः । मादयाते । तम् । अश्याम । देवऽयन्तः । वः । अद्य ॥