rigveda/7/46/3

या ते॑ दि॒द्युदव॑सृष्टा दि॒वस्परि॑ क्ष्म॒या चर॑ति॒ परि॒ सा वृ॑णक्तु नः। स॒हस्रं॑ ते स्वपिवात भेष॒जा मा न॑स्तो॒केषु॒ तन॑येषु रीरिषः ॥३॥

या । ते॒ । दि॒द्युत् । अव॑ऽसृष्टा । दि॒वः । परि॑ । क्ष्म॒या । चर॑ति । परि॑ । सा । वृ॒ण॒क्तु॒ । नः॒ । स॒हस्र॑म् । ते॒ । सु॒ऽअ॒पि॒वा॒त॒ । भे॒ष॒जा । मा । नः॒ । तो॒केषु॑ । तन॑येषु । रि॒रि॒षः॒ ॥

ऋषिः - वसिष्ठः

देवता - रुद्रः

छन्दः - निचृज्जगती

स्वरः - निषादः

स्वर सहित मन्त्र

या ते॑ दि॒द्युदव॑सृष्टा दि॒वस्परि॑ क्ष्म॒या चर॑ति॒ परि॒ सा वृ॑णक्तु नः। स॒हस्रं॑ ते स्वपिवात भेष॒जा मा न॑स्तो॒केषु॒ तन॑येषु रीरिषः ॥३॥

स्वर सहित पद पाठ

या । ते॒ । दि॒द्युत् । अव॑ऽसृष्टा । दि॒वः । परि॑ । क्ष्म॒या । चर॑ति । परि॑ । सा । वृ॒ण॒क्तु॒ । नः॒ । स॒हस्र॑म् । ते॒ । सु॒ऽअ॒पि॒वा॒त॒ । भे॒ष॒जा । मा । नः॒ । तो॒केषु॑ । तन॑येषु । रि॒रि॒षः॒ ॥


स्वर रहित मन्त्र

या ते दिद्युदवसृष्टा दिवस्परि क्ष्मया चरति परि सा वृणक्तु नः। सहस्रं ते स्वपिवात भेषजा मा नस्तोकेषु तनयेषु रीरिषः ॥३॥


स्वर रहित पद पाठ

या । ते । दिद्युत् । अवऽसृष्टा । दिवः । परि । क्ष्मया । चरति । परि । सा । वृणक्तु । नः । सहस्रम् । ते । सुऽअपिवात । भेषजा । मा । नः । तोकेषु । तनयेषु । रिरिषः ॥