rigveda/7/44/4

द॒धि॒क्रावा॑ प्रथ॒मो वा॒ज्यर्वाग्रे॒ रथा॑नां भवति प्रजा॒नन्। सं॒वि॒दा॒न उ॒षसा॒ सूर्ये॑णादि॒त्येभि॒र्वसु॑भि॒रङ्गि॑रोभिः ॥४॥

द॒धि॒ऽक्रावा॑ । प्र॒थ॒मः । वा॒जी । अर्वा॑ । अग्रे॑ । रथा॑नाम् । भ॒व॒ति॒ । प्र॒ऽजा॒नन् । स॒म्ऽवि॒दा॒नः । उ॒षसा॑ । सूर्ये॑ण । आ॒दि॒त्येभिः॑ । वसु॑ऽभिः । अङ्गि॑रःऽभिः ॥

ऋषिः - वसिष्ठः

देवता - लिङ्गोक्ताः

छन्दः - पङ्क्तिः

स्वरः - पञ्चमः

स्वर सहित मन्त्र

द॒धि॒क्रावा॑ प्रथ॒मो वा॒ज्यर्वाग्रे॒ रथा॑नां भवति प्रजा॒नन्। सं॒वि॒दा॒न उ॒षसा॒ सूर्ये॑णादि॒त्येभि॒र्वसु॑भि॒रङ्गि॑रोभिः ॥४॥

स्वर सहित पद पाठ

द॒धि॒ऽक्रावा॑ । प्र॒थ॒मः । वा॒जी । अर्वा॑ । अग्रे॑ । रथा॑नाम् । भ॒व॒ति॒ । प्र॒ऽजा॒नन् । स॒म्ऽवि॒दा॒नः । उ॒षसा॑ । सूर्ये॑ण । आ॒दि॒त्येभिः॑ । वसु॑ऽभिः । अङ्गि॑रःऽभिः ॥


स्वर रहित मन्त्र

दधिक्रावा प्रथमो वाज्यर्वाग्रे रथानां भवति प्रजानन्। संविदान उषसा सूर्येणादित्येभिर्वसुभिरङ्गिरोभिः ॥४॥


स्वर रहित पद पाठ

दधिऽक्रावा । प्रथमः । वाजी । अर्वा । अग्रे । रथानाम् । भवति । प्रऽजानन् । सम्ऽविदानः । उषसा । सूर्येण । आदित्येभिः । वसुऽभिः । अङ्गिरःऽभिः ॥