rigveda/7/44/2

द॒धि॒क्रामु॒ नम॑सा बो॒धय॑न्त उ॒दीरा॑णा य॒ज्ञमु॑पप्र॒यन्तः॑। इळां॑ दे॒वीं ब॒र्हिषि॑ सा॒दय॑न्तो॒ऽश्विना॒ विप्रा॑ सु॒हवा॑ हुवेम ॥२॥

द॒धि॒ऽक्राम् । ऊँ॒ इति॑ । नम॑सा । बो॒धय॑न्तः । उ॒त्ऽईरा॑णाः । य॒ज्ञम् । उ॒प॒ऽप्र॒यन्तः॑ । इळा॑म् । दे॒वीम् । ब॒र्हिषि॑ । सा॒दय॑न्तः । अ॒श्विना॑ । विप्राः॑ । सु॒ऽहवा॑ । हु॒वे॒म॒ ॥

ऋषिः - वसिष्ठः

देवता - लिङ्गोक्ताः

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

द॒धि॒क्रामु॒ नम॑सा बो॒धय॑न्त उ॒दीरा॑णा य॒ज्ञमु॑पप्र॒यन्तः॑। इळां॑ दे॒वीं ब॒र्हिषि॑ सा॒दय॑न्तो॒ऽश्विना॒ विप्रा॑ सु॒हवा॑ हुवेम ॥२॥

स्वर सहित पद पाठ

द॒धि॒ऽक्राम् । ऊँ॒ इति॑ । नम॑सा । बो॒धय॑न्तः । उ॒त्ऽईरा॑णाः । य॒ज्ञम् । उ॒प॒ऽप्र॒यन्तः॑ । इळा॑म् । दे॒वीम् । ब॒र्हिषि॑ । सा॒दय॑न्तः । अ॒श्विना॑ । विप्राः॑ । सु॒ऽहवा॑ । हु॒वे॒म॒ ॥


स्वर रहित मन्त्र

दधिक्रामु नमसा बोधयन्त उदीराणा यज्ञमुपप्रयन्तः। इळां देवीं बर्हिषि सादयन्तोऽश्विना विप्रा सुहवा हुवेम ॥२॥


स्वर रहित पद पाठ

दधिऽक्राम् । ऊँ इति । नमसा । बोधयन्तः । उत्ऽईराणाः । यज्ञम् । उपऽप्रयन्तः । इळाम् । देवीम् । बर्हिषि । सादयन्तः । अश्विना । विप्राः । सुऽहवा । हुवेम ॥