rigveda/7/42/2

सु॒गस्ते॑ अग्ने॒ सन॑वित्तो॒ अध्वा॑ यु॒ङ्क्ष्व सु॒ते ह॒रितो॑ रो॒हित॑श्च। ये वा॒ सद्म॑न्नरु॒षा वी॑र॒वाहो॑ हु॒वे दे॒वानां॒ जनि॑मानि स॒त्तः ॥२॥

सु॒ऽगः । ते॒ । अ॒ग्ने॒ । सन॑ऽवित्तः । अध्वा॑ । यु॒क्ष्व । सु॒ते । ह॒रितः॑ । रो॒हितः॑ । च॒ । ये । वा॒ । सद्म॑न् । अ॒रु॒षाः । वी॒र॒ऽवाहः॑ । हु॒वे । दे॒वाना॑म् । जनि॑मानि । स॒त्तः ॥

ऋषिः - वसिष्ठः

देवता - विश्वेदेवा:

छन्दः - त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

सु॒गस्ते॑ अग्ने॒ सन॑वित्तो॒ अध्वा॑ यु॒ङ्क्ष्व सु॒ते ह॒रितो॑ रो॒हित॑श्च। ये वा॒ सद्म॑न्नरु॒षा वी॑र॒वाहो॑ हु॒वे दे॒वानां॒ जनि॑मानि स॒त्तः ॥२॥

स्वर सहित पद पाठ

सु॒ऽगः । ते॒ । अ॒ग्ने॒ । सन॑ऽवित्तः । अध्वा॑ । यु॒क्ष्व । सु॒ते । ह॒रितः॑ । रो॒हितः॑ । च॒ । ये । वा॒ । सद्म॑न् । अ॒रु॒षाः । वी॒र॒ऽवाहः॑ । हु॒वे । दे॒वाना॑म् । जनि॑मानि । स॒त्तः ॥


स्वर रहित मन्त्र

सुगस्ते अग्ने सनवित्तो अध्वा युङ्क्ष्व सुते हरितो रोहितश्च। ये वा सद्मन्नरुषा वीरवाहो हुवे देवानां जनिमानि सत्तः ॥२॥


स्वर रहित पद पाठ

सुऽगः । ते । अग्ने । सनऽवित्तः । अध्वा । युक्ष्व । सुते । हरितः । रोहितः । च । ये । वा । सद्मन् । अरुषाः । वीरऽवाहः । हुवे । देवानाम् । जनिमानि । सत्तः ॥