rigveda/7/42/1

प्र ब्र॒ह्माणो॒ अङ्गि॑रसो नक्षन्त॒ प्र क्र॑न्द॒नुर्न॑भ॒न्य॑स्य वेतु। प्र धे॒नव॑ उद॒प्रुतो॑ नवन्त यु॒ज्याता॒मद्री॑ अध्व॒रस्य॒ पेशः॑ ॥१॥

प्र । ब्र॒ह्माणः॑ । अङ्गि॑रसः । न॒क्ष॒न्त॒ । प्र । क्र॒न्द॒नुः । न॒भ॒न्य॑स्य । वे॒तु॒ । प्र । धे॒नवः॑ । उ॒द॒ऽप्रुतः॑ । न॒व॒न्त॒ । यु॒ज्याता॑म् । अद्री॒ इति॑ । अ॒ध्व॒रस्य॑ । पेशः॑ ॥

ऋषिः - वसिष्ठः

देवता - विश्वेदेवा:

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

प्र ब्र॒ह्माणो॒ अङ्गि॑रसो नक्षन्त॒ प्र क्र॑न्द॒नुर्न॑भ॒न्य॑स्य वेतु। प्र धे॒नव॑ उद॒प्रुतो॑ नवन्त यु॒ज्याता॒मद्री॑ अध्व॒रस्य॒ पेशः॑ ॥१॥

स्वर सहित पद पाठ

प्र । ब्र॒ह्माणः॑ । अङ्गि॑रसः । न॒क्ष॒न्त॒ । प्र । क्र॒न्द॒नुः । न॒भ॒न्य॑स्य । वे॒तु॒ । प्र । धे॒नवः॑ । उ॒द॒ऽप्रुतः॑ । न॒व॒न्त॒ । यु॒ज्याता॑म् । अद्री॒ इति॑ । अ॒ध्व॒रस्य॑ । पेशः॑ ॥


स्वर रहित मन्त्र

प्र ब्रह्माणो अङ्गिरसो नक्षन्त प्र क्रन्दनुर्नभन्यस्य वेतु। प्र धेनव उदप्रुतो नवन्त युज्यातामद्री अध्वरस्य पेशः ॥१॥


स्वर रहित पद पाठ

प्र । ब्रह्माणः । अङ्गिरसः । नक्षन्त । प्र । क्रन्दनुः । नभन्यस्य । वेतु । प्र । धेनवः । उदऽप्रुतः । नवन्त । युज्याताम् । अद्री इति । अध्वरस्य । पेशः ॥