rigveda/7/41/1

प्रा॒तर॒ग्निं प्रा॒तरिन्द्रं॑ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना॑। प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒तः सोम॑मु॒त रु॒द्रं हु॑वेम ॥१॥

प्रा॒तः । अ॒ग्निम् । प्रा॒तः । इन्द्र॑म् । ह॒वा॒म॒हे॒ । प्रा॒तः। मि॒त्रावरु॑णा । प्रा॒तः । अ॒श्विना॑ । प्रा॒तः। भग॑म् । पू॒षण॑म् । ब्रह्म॑णः । पति॑म् । प्रा॒तः । सोम॑म् । उ॒त । रु॒द्रम् । हु॒वे॒म॒ ॥

ऋषिः - वसिष्ठः

देवता - लिङ्गोक्ताः

छन्दः - निचृज्जगती

स्वरः - निषादः

स्वर सहित मन्त्र

प्रा॒तर॒ग्निं प्रा॒तरिन्द्रं॑ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना॑। प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒तः सोम॑मु॒त रु॒द्रं हु॑वेम ॥१॥

स्वर सहित पद पाठ

प्रा॒तः । अ॒ग्निम् । प्रा॒तः । इन्द्र॑म् । ह॒वा॒म॒हे॒ । प्रा॒तः। मि॒त्रावरु॑णा । प्रा॒तः । अ॒श्विना॑ । प्रा॒तः। भग॑म् । पू॒षण॑म् । ब्रह्म॑णः । पति॑म् । प्रा॒तः । सोम॑म् । उ॒त । रु॒द्रम् । हु॒वे॒म॒ ॥


स्वर रहित मन्त्र

प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रावरुणा प्रातरश्विना। प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातः सोममुत रुद्रं हुवेम ॥१॥


स्वर रहित पद पाठ

प्रातः । अग्निम् । प्रातः । इन्द्रम् । हवामहे । प्रातः। मित्रावरुणा । प्रातः । अश्विना । प्रातः। भगम् । पूषणम् । ब्रह्मणः । पतिम् । प्रातः । सोमम् । उत । रुद्रम् । हुवेम ॥