rigveda/7/38/5

अ॒भि ये मि॒थो व॒नुषः॒ सप॑न्ते रा॒तिं दि॒वो रा॑ति॒षाचः॑ पृथि॒व्याः। अहि॑र्बु॒ध्न्य॑ उ॒त नः॑ शृणोतु॒ वरू॒त्र्येक॑धेनुभि॒र्नि पा॑तु ॥५॥

अ॒भि । ये । मि॒थः । व॒नुषः॑ । सप॑न्ते । रा॒तिम् दि॒वः । रा॒ति॒ऽसाचः॑ । पृ॒थि॒व्याः । अहिः॑ । बु॒ध्न्यः॑ । उ॒त । नः॒ । शृ॒णो॒तु॒ । वरू॑त्री । एक॑धेनुऽभिः । नि । पा॒तु॒ ॥

ऋषिः - वसिष्ठः

देवता - सविता

छन्दः - विराट्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

अ॒भि ये मि॒थो व॒नुषः॒ सप॑न्ते रा॒तिं दि॒वो रा॑ति॒षाचः॑ पृथि॒व्याः। अहि॑र्बु॒ध्न्य॑ उ॒त नः॑ शृणोतु॒ वरू॒त्र्येक॑धेनुभि॒र्नि पा॑तु ॥५॥

स्वर सहित पद पाठ

अ॒भि । ये । मि॒थः । व॒नुषः॑ । सप॑न्ते । रा॒तिम् दि॒वः । रा॒ति॒ऽसाचः॑ । पृ॒थि॒व्याः । अहिः॑ । बु॒ध्न्यः॑ । उ॒त । नः॒ । शृ॒णो॒तु॒ । वरू॑त्री । एक॑धेनुऽभिः । नि । पा॒तु॒ ॥


स्वर रहित मन्त्र

अभि ये मिथो वनुषः सपन्ते रातिं दिवो रातिषाचः पृथिव्याः। अहिर्बुध्न्य उत नः शृणोतु वरूत्र्येकधेनुभिर्नि पातु ॥५॥


स्वर रहित पद पाठ

अभि । ये । मिथः । वनुषः । सपन्ते । रातिम् दिवः । रातिऽसाचः । पृथिव्याः । अहिः । बुध्न्यः । उत । नः । शृणोतु । वरूत्री । एकधेनुऽभिः । नि । पातु ॥