rigveda/7/37/6

वा॒सय॑सीव वे॒धस॒स्त्वं नः॑ क॒दा न॑ इन्द्र॒ वच॑सो बुबोधः। अस्तं॑ ता॒त्या धि॒या र॒यिं सु॒वीरं॑ पृ॒क्षो नो॒ अर्वा॒ न्यु॑हीत वा॒जी ॥६॥

वा॒सय॑सिऽइव । वे॒धसः॑ । त्वम् । नः॒ । क॒दा । नः॒ । इ॒न्द्र॒ । वच॑सः । बु॒बो॒धः॒ । अस्त॑म् । ता॒त्या । धि॒या । र॒यिम् । सु॒ऽवीर॑म् । पृ॒क्षः । नः॒ । अर्वा॑ । नि । उ॒ही॒त॒ । वा॒जी ॥

ऋषिः - वसिष्ठः

देवता - विश्वेदेवा:

छन्दः - स्वराट्पङ्क्तिः

स्वरः - पञ्चमः

स्वर सहित मन्त्र

वा॒सय॑सीव वे॒धस॒स्त्वं नः॑ क॒दा न॑ इन्द्र॒ वच॑सो बुबोधः। अस्तं॑ ता॒त्या धि॒या र॒यिं सु॒वीरं॑ पृ॒क्षो नो॒ अर्वा॒ न्यु॑हीत वा॒जी ॥६॥

स्वर सहित पद पाठ

वा॒सय॑सिऽइव । वे॒धसः॑ । त्वम् । नः॒ । क॒दा । नः॒ । इ॒न्द्र॒ । वच॑सः । बु॒बो॒धः॒ । अस्त॑म् । ता॒त्या । धि॒या । र॒यिम् । सु॒ऽवीर॑म् । पृ॒क्षः । नः॒ । अर्वा॑ । नि । उ॒ही॒त॒ । वा॒जी ॥


स्वर रहित मन्त्र

वासयसीव वेधसस्त्वं नः कदा न इन्द्र वचसो बुबोधः। अस्तं तात्या धिया रयिं सुवीरं पृक्षो नो अर्वा न्युहीत वाजी ॥६॥


स्वर रहित पद पाठ

वासयसिऽइव । वेधसः । त्वम् । नः । कदा । नः । इन्द्र । वचसः । बुबोधः । अस्तम् । तात्या । धिया । रयिम् । सुऽवीरम् । पृक्षः । नः । अर्वा । नि । उहीत । वाजी ॥